|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.291. अध्यायः 291
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरं प्रत्यध्यात्मकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
* युधिष्ठिर उवाच। 12-291-0x(6423)(77123)
अध्यात्मं नाम यदिदं पुरुषस्येह विद्यते।
यदध्यात्मं यतश्चैव तन्मे ब्रूहि पितामह॥ 12-291-1(77124)
भीष्म उवाच। 12-291-2x(6424)
सर्वज्ञानं परं बुद्ध्या यन्मां त्वमनुपृच्छसि।
तद्व्याख्यास्यामि ते तात तस्य व्याख्यामिमां शृणु॥ 12-291-2(77125)
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्।
महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ॥ 12-291-3(77126)
स तेषां गुणसंघातः शरीरं भरतर्षभ।
सततं हि प्रलीयन्ते गुणास्ते प्रभवन्ति च॥ 12-291-4(77127)
ततः सृष्टानि भूतानि तानि यान्ति पुनः पुनः।
महाभूतानि भूतेभ्य ऊर्मयः सागरे यथा॥ 12-291-5(77128)
प्रसारयित्वेहाङ्गानि कूर्मः संहरते यथा।
तद्वद्भूतानि भूतानामल्पीयांसि स्थवीयसाम्॥ 12-291-6(77129)
आकाशात्खलु यो घोषः संघातस्तु महीगुणः।
वायोः प्राणो रसस्त्वद्भ्यो रूपं तेजस उच्यते॥ 12-291-7(77130)
इत्येतन्मयमेवैतत्सर्वं स्थावरजङ्गमम्।
प्रलये च तमभ्येति तस्मादुद्दिश्यते पुनः॥ 12-291-8(77131)
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्।
विषयान्कल्पयामास यस्मिन्यदनुपश्यति॥ 12-291-9(77132)
शब्दश्रोत्रे तथा खानि त्रयमाकाशयोनिजम्।
रसः स्नेहश्च जिह्वा च अपामेते गुणाः स्मृताः॥ 12-291-10(77133)
रूपं चक्षुर्विपाकश्च त्रिविधं ज्योतिरूच्यते।
घ्रेयं घ्राणं शरीरं च एते भूमिगुणाः स्मृताः॥ 12-291-11(77134)
प्राणः स्पर्शश्च चेष्टा च वायोरेते गुणाः स्मृताः।
इति सर्वगुणा राजन्व्याख्याताः पाञ्चभौतिकाः॥ 12-291-12(77135)
सत्त्वं रजस्तमः कालः कर्म बुद्धिश्च भारत।
मनः षष्ठानि चैतेषु ईश्वरः समकल्पयत्॥ 12-291-13(77136)
यदूर्ध्वपादतलयोरवाड्यूर्ध्नश्च पश्यसि।
एतस्मिन्नेव कृत्स्नेयं वर्तते बुद्धिरन्तरे॥ 12-291-14(77137)
इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते।
सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञः पुनरष्टमः॥ 12-291-15(77138)
इन्द्रियाणि च कर्ता च विचेतव्यानि भागशः।
तमः सत्वं रजस्तैव तेऽपि भावास्तदाश्रयाः॥ 12-291-16(77139)
चक्षुरालोचनायैव संशयं कुरुते मनः।
बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते॥ 12-291-17(77140)
तमः सत्वं रजश्चेति कालः कर्म च भारत।
गुणैर्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाणि च।
मनः षष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः॥ 12-291-18(77141)
येन पश्यति तच्चक्षुः शृण्वती श्रोत्रमुच्यते।
जिघ्रती भवति घ्राणं रसती रसना रसान्॥ 12-291-19(77142)
स्पर्शनं स्पर्शती स्पर्शान्बुद्धिर्विक्रियतेऽसकृत्।
यदा प्रार्थयते किंचित्तदा भवति सा मनः॥ 12-291-20(77143)
अधिष्ठानानि बुद्ध्या हि पृथगेतानि पञ्चधा।
इन्द्रियाणीति तान्याहुस्तेषु दुष्टेषु दुष्यति॥ 12-291-21(77144)
पुरुषे तिष्ठती बुद्धिस्त्रिषु भावेषु वर्तते।
कदाचिल्लभते प्रीतिं कदाचिदपि शोचति॥ 12-291-22(77145)
न सुखेन न दुःखेन कदाचिदपि वर्तते।
सेयं भावात्मिका भावांस्त्रीनेतान्परिवर्तते॥ 12-291-23(77146)
सरितां सागरो भर्ता यथा वेलामिवोर्मिमान्।
इति भावगता बुद्धिर्भावे मनसि वर्तते॥ 12-291-24(77147)
प्रवर्तमानं तु रजस्तद्भावेनानुर्तते।
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता॥ 12-291-25(77148)
कथंचिदुपपद्यन्ते पुरुषे सात्विका गुणाः।
पिरदाहस्तथा शोकः संतापोऽपूर्तिरक्षमा॥ 12-291-26(77149)
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुभिः।
अविद्या रागमोहौ च प्रमादः स्तब्धता भयम्॥ 12-291-27(77150)
असमृद्धिस्तथा दैन्यं प्रमोहः स्वप्नतन्द्रिता।
कथंचिदुपवर्तन्ते विविधास्तामसा गुणाः॥ 12-291-28(77151)
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत्।
वर्तते सात्विको भाव इत्युपेक्षेत तत्तथा॥ 12-291-29(77152)
अथ यद्दुःखसंयुक्तमप्रीतिकरमात्मनः।
प्रवृत्तं रज इत्येव तदसंरभ्य चिन्तयेत्॥ 12-291-30(77153)
अथ यन्मोहसंयुक्तं काये मनसि वा भवेत्।
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत्॥ 12-291-31(77154)
इति बुद्धिगतीः सर्वा व्याख्याता यावतीरिह।
एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम्॥ 12-291-32(77155)
सत्वक्षेत्रज्ञयोरेतदन्तरं विद्धि सूक्ष्मयोः।
सृजतेऽत्र गुणानेक एको न सृजते गुणान्॥ 12-291-33(77156)
पृथग्भूतौ प्रकृत्या तु संप्रयुक्तौ च सर्वदा।
यथा मत्स्योऽद्भिरन्यः स्यात्संप्रयुक्तो भवेत्तथा॥ 12-291-34(77157)
न गुणा विदुरात्मानं स गुणान्वेद सर्वतः।
परिद्रष्टा गुणानां तु संस्रष्टा मन्यते यथा॥ 12-291-35(77158)
आश्रयो नास्ति सत्वस्य गुणसर्गेण चेतना।
सत्वमस्य सृजन्त्यन्ये गुणान्वेद कदाचन॥ 12-291-36(77159)
सृजते हि गुणान्सत्वं क्षेत्रज्ञः परिपश्यति।
संप्रयोगस्तयोरेष सत्वक्षेत्रज्ञयोर्ध्रुवः॥ 12-291-37(77160)
इन्द्रियैस्तु प्रदीपार्थं क्रियते बुद्धिरन्तरा।
निश्चक्षुर्भिरजानद्भिरिन्द्रियाणि प्रदीपवत्॥ 12-291-38(77161)
एवं स्वभावमेवैतत्तद्बुद्ध्वा विहरन्नरः।
अशोचन्नप्रहृष्यंश्च स वै विगतमत्सरः॥ 12-291-39(77162)
स्वभावसिद्धमेवैतद्यदिमान्सृजते गुणान्।
ऊर्णनाभिर्यथा सूत्रं विज्ञेयास्तन्तुवद्गुणाः॥ 12-291-40(77163)
प्रध्वस्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते।
एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे॥ 12-291-41(77164)
इतीदं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम्।
विमुच्य सुखमासीत विशोकश्छिन्नसंशयः॥ 12-291-42(77165)
ताम्येयुः प्रच्युताः पृथ्वीं मोहपूर्णां नदीं नराः।
यथा गाधमविद्वांसो बुद्धियोगमयं तथा॥ 12-291-43(77166)
नैव ताम्यन्ति विद्वांसः प्लवन्तः पारमम्भसः।
अध्यात्मविदुषो धीरा ज्ञानं तु परमं प्लवः॥ 12-291-44(77167)
न भवति विदुषां महद्भयं
यदविदुषां सुमहद्भयं भवेत्।
न हि गतिरधिकाऽस्ति कस्यचि
त्सकृदुपदर्शयतीह तुल्यताम्॥ 12-291-45(77168)
यत्करोति बहुदोषमेकत
स्तच्च दूषयति यत्पुरा कृतम्।
नाप्रियं तदुभयं करोत्यसौ
यच्च दूषयति यत्करोति च॥ ॥ 12-291-46(77169)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकनवत्यधिकद्विशततमोऽध्यायः॥ 291॥
Mahabharata - Shanti Parva - Chapter Footnotes
* 192 तमाध्यायतया पूर्वं विद्यमान एवायमध्यायः ख. ध. झ. पुस्तकेषु क्वचित्क्वचित्पाठभेदेन पुनरपि दृश्यते न दृश्यते च दाक्षिणात्यबहुकोशेषु।


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|